|| अक्कलकोट स्वामी समर्थ अष्टोत्तरनामावली ।।
अथ श्रीस्वामी समर्थ अष्टोत्तर नामावली
०१) ॐ दिगंबराय नमः ।
०२) ॐ वैराग्यांबराय नमः ।
०३) ॐ ज्ञानांबराय नमः ।
०४) ॐ स्वानंदांबराय नमः ।
०५) ॐ अतिदिव्यतेजांबराय नमः ।
०६) ॐ काव्यशक्तिप्रदायिने नमः ।
०७) ॐ अमृतमंत्रदायिने नमः ।
०८) ॐ दिव्यज्ञानदत्ताय नमः ।
०९) ॐ दिव्यचक्षुदायिने नमः ।
१०) ॐ चित्ताकर्षणाय नमः ।
११) ॐ चित्तप्रशांताय नमः ।
१२) ॐ दिव्यानुसंधानप्रदायिने नमः ।
१३) ॐ सद्गुनविवर्धनाय नमः ।
१४) ॐ अष्टसिद्दिदायकाय नमः ।
१५) ॐ भक्तिवैराग्यदत्ताय नमः ।
१६) ॐ भुक्तिमुक्तिशक्तिप्रदायिने नमः ।
१७) ॐ आत्माविज्ञानप्रेरकाय नमः ।
१८) ॐ अमृतानंददत्ताय नमः ।
१९) ॐ गर्वदहनाय नमः ।
२०) ॐ षड्रिपुहरिताय नमः ।
२१) ॐ भक्तसंरक्षकाय नमः ।
२२) ॐ अनंत ब्रम्हांड प्रमुखाय नमः ।
२३) ॐ चैतन्यतेजसे नमः ।
२४) ॐ श्री समर्थयतये नमः ।
२५) ॐ आजानुबाहवे नमः ।
२६) ॐ आदिगुरवे नमः । २७)
ॐ श्रीपादश्रीवल्लभाय नमः ।
२८) ॐ नृसिंहभानुसरस्वत्यै नमः ।
२९) ॐ अवधुतदत्तात्रेयाय नमः ।
३०) ॐ चंचलेश्वराय नमः ।
३१) ॐ कुरवपुरवासिने नमः ।
३२) ॐ गंधर्वपुरवासिने नमः ।
३३) ॐ गिरनारवासिने नमः ।
३४) ॐ श्रीशैल्यनिवासिने नमः ।
३५) ॐ ओंकारवासिने नमः ।
३६) ॐ आत्मसूर्याय नमः ।
३७) ॐ प्रखरतेजःप्रवर्तिने नमः ।
३८) ॐ अमोघतेजानंदाय नमः ।
३९) ॐ दैदिप्य तेजोधराय नमः ।
४०) ॐ परमसिद्दयोगेश्वराय नमः ।
४१) ॐ कृष्णानंद-अतिप्रियाय नमः ।
४२) ॐ योगिराजराजेश्वराय नमः ।
४३) ॐ अकारणकारुण्यमूर्तये नमः ।
४४) ॐ चिरंजीवचैतन्याय नमः ।
४५) ॐ स्वानंदकंदस्वामिने नमः ।
४६) ॐ स्मर्तृगामिने नमः ।
४७) ॐ नित्यचिदानंदाय नमः ।
४८) ॐ भक्तचिंतामणीश्वराय नमः ।
४९) ॐ अचिंत्यनिरंजनाय नमः ।
५०) ॐ दयानिधये नमः ।
५१) ॐ भक्तहृदयनरेशाय नमः ।
५२) ॐ शरणागतकवचाय नमः ।
५३) ॐ वेदस्फूर्तिदायिने नमः ।
५४) ॐ महामंत्रराजाय नमः ।
५५) ॐ अनाहतनादप्रदानाय नमः ।
५६) ॐ सुकोमलपादांबुजाय नमः ।
५७) ॐ चित्शक्त्यात्मने नमः ।
५८) ॐ अतिस्थिराय नमः ।
५९) ॐ माध्यान्हभिक्षाप्रियाय नमः ।
६०) ॐ योगक्षेमवाहिने नमः ।
६१) ॐ भक्तकल्पवृक्षाय नमः ।
६२) ॐ अनंतशक्तिसूत्रधाराय नमः ।
६३) ॐ परब्रह्माय नमः ।
६४) ॐ अतितृप्तपरमतृप्ताय नमः ।
६५) ॐ स्वावलंबन सूत्रदात्रे नमः ।
६६) ॐ बाल्यभावप्रियाय नमः ।
६७) ॐ भक्तिनिधानाय नमः ।
६८) ॐ असमर्थसामर्थ्यदायिने नमः ।
६९) ॐ प्रेमभिक्षांकिताय नमः
७०) ॐ योगसिध्दिदायकाय नमः ।
७१) ॐ औंदुबरप्रियाय नमः ।
७२) ॐ वज्रसुकोमलतनुधारकाय नमः ।
७३) ॐ त्रिमूर्तिध्वजधारकाय नमः ।
७४) ॐ चिदाकाशव्याप्ताय नमः ।
७५) ॐ केशवचंदनकस्तुरीसुगंधप्रियाय नमः ।
७६) ॐ साधकसंजीवन्यै नमः ।
७७) ॐ कुंडलिनीस्फूर्तिदात्रे नमः ।
७८) ॐ अलक्षरक्षकाय नमः ।
७९) ॐ आनंदवर्धनाय नमः ।
८०) ॐ सुखनिधानाय नमः ।
८१) ॐ उपमातीते नमः ।
८२) ॐ भक्तिसंगितप्रियाय नमः ।
८३) ॐ अकारणसिध्दिकृपाकारकाय नमः ।
८४) ॐ भवभयभंजनाय नमः ।
८५) ॐ स्मितहास्यानंदाय नमः ।
८६) ॐ संकल्पसिध्दाय नमः ।
८७) ॐ संकल्पसिध्देदात्रे नमः ।
८८) ॐ सर्वबंधमोक्षदायकाय नमः ।
८९) ॐ ज्ञानातीतज्ञानभास्कराय नमः ।
९०) ॐ श्रीकिर्तिनाममंत्राभ्यां नमः ।
९१) ॐ अभयवरदायिने नमः ।
९२ ) ॐ गुरुलीलामृतधाराय नमः ।
९३) ॐ गुरुलीलामृतधारकाय नमः ।
९४) ॐ वज्रसुकोमलहृदयधारिणे नमः ।
९५) ॐ सुविकाल्पातीत निर्विकल्प सामाधीभ्या नमः ।
९६) ॐ निर्विकल्पातीतसहजसमाधिभ्या नमः ।
९७) ॐ त्रिकालातीतत्रिकालज्ञानिने नमः ।
९८) ॐ भावातीतभावसमाधिभ्यां नमः ।
९९) ॐ ब्रह्मातीत-अणुरेणुव्यापकाय नमः ।
१००) ॐ त्रिगुणातीतसगुणसाकारसुलक्षणाय नमः ।
१०१) ॐ बंधनातीतभक्तिकिरणबंधाय नमः ।
१०२) ॐ देहातीत सदेह दर्शनदायकाय नमः ।
१०३ ) ॐ चितंनातीतप्रेमचिंतनप्रकर्षणाय नमः ।
१०४ ॐ मौनातीत - उन्मनीभावप्रियाय नमः ।
१०५) ॐ बुद्ध्यतीतसद्बुध्दिप्रेरकाय नमः ।
१०६) ॐ मत्प्रिय- पितामहसद्गुरुभ्यां नमः ।
१०७) ॐ पवित्रतमतात्यासाहेबचरणारविंदाभ्यां नमः ।
१०८) ॐ अक्कलकोट स्वामी समर्थाय नमः ।
कोणत्याही टिप्पण्या नाहीत: