Shiv Kavach In Sanskrti
वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम्।
सहस्रकरमत्युग्रं वन्दे शंभुमुमापतिम् ॥१॥
अथो परं सर्वपुराणगुह्यं निश्शेषपापौघहरं
पवित्रम्।
जयप्रदं सर्वविपद्प्रमोचनं वक्ष्यामि शैवं कवचं
हिताय ते ॥२॥
नमस्कृत्वा महादेवं सर्वव्यापिनमीश्वरं।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥३॥
शुचौ देशे समासीनो यथावत्कल्पितासनः।
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम्
॥४॥
हृत्पुण्डरीकान्तरसन्निविष्टं
स्वतेजसाव्याप्तनभोवकाशम्।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं
ध्यायेत्परानन्दमयं महेशम् ॥५॥
ध्यानावधूताखिलकर्मबन्ध-श्चिरं
चिदानन्दनिमग्नचेताः।
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन
रक्षाम् ॥६॥
मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं
गभीरे।
तन्नामदिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं
हृदिस्थम्॥७॥
सर्वत्र मां रक्षतु
विश्वमूर्ति-र्ज्योतिर्मयानन्दघनश्चिदात्मा।
अणॊरणीयानुतशक्तिरेकः स ईश्वरः पातु भयादशेषात्
॥८॥
यो भूस्वरूपेण बिभर्ति विश्वं पायात् स
भूमेर्गिरिशोऽष्टमूर्तिः।
योऽपां स्वरूपेण नृणां करोति सञ्जीवनं सोऽवतु
मां जलेभ्यः ॥९॥
कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति
भूरिलीलः।
स कालरुद्रोऽवतु मां
दवाग्ने-र्वात्यादिभीतेरखिलाच्च तापात् ।१०॥
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति
कुठारपाणिः।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां
स्थितं रक्षतु मामजस्रम्॥११॥
कुठारवेदाङ्कुशपाशशूल-कपालढक्काक्षगुणान्
दधानः।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि
दक्षिणस्याम् ॥१२॥
कुन्देन्दुशंखस्फटिकावभासो
वेदाक्षमालावरदाभयांकः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः
सद्योधिजातोऽवतु मां प्रतीच्यां ॥१३॥
वराक्षमालाऽभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां
दिशि वामदेवः॥१४॥
वेदाभयेष्टांकुशपाशट्ङ्क-कपालढक्काक्षकशूलपाणिः।
सितद्युतिः पञ्चमुखोऽवता-दीशान ऊर्ध्वं
परमप्रकाशः ॥१५॥
मूर्धानमव्यान्ममचन्द्रमौलिः फालं ममाव्यादथ
फालनेत्रः।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु
विश्वनाथः ॥१६॥
पायाच्छ्रुतिर्मे श्रुतिगीतकीर्तिः
कपोलमव्यात्सततं कपाली।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा
रक्षतु वेदजिह्वः ॥१७॥
कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु
पिनाकपाणिः
दोर्मूलमव्यान्मम धर्मबाहु-र्वक्षःस्थलं
दक्षमखान्तकोऽव्यात्॥१८॥
ममोदरं पातु गिरीन्द्रधन्वा मध्यं
ममाव्यान्मदनान्तकारी।
हेरंबतातो मम पातु नाभिं पायात्कटिं
धूर्ज्जटिरीश्वरो मे ॥१९॥
ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे
जगदीश्वरोऽव्यात्
जंघायुगं पुंगवकेतुरव्यात् पादौ ममाव्यात्
सुरवन्द्यपादः ॥२०॥
महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु
वामदेवः।
त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु
दिनान्त्ययामे ॥२१॥
पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां
नीशीथे ।
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु
सर्वकालम् ॥२२॥
अन्तःस्थितं रक्षतु शंकरो मां स्थाणुः सदा पातु
बहिः स्थितं माम् ।
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां
समन्तात् ॥२३॥
तिष्ठन्तमव्यात् भुवनैकनाथः पायाद्व्रजन्तं
प्रमथाधिनाथः।
वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु
शिवः शयानम् ॥२४॥
मार्गेषु मां रक्षतु नीलकण्ठः शैलादि दुर्गेषु
पुरत्रयारिः।
अरण्यवासादि महाप्रवासे पायान्मृगव्याध
उदारशक्तिः ॥२५॥
कल्पान्तकाटोपपटुप्रकोप-स्फुटाट्टहासोच्चलिताण्डकोशः।
घोरारिसेनार्णव दुर्निवार-महाभयाद्रक्षतु
वीरभद्रः ॥२६॥
पत्त्यश्वमातंगघटावरूथ-सहस्रलक्षायुतकोटिभीषणम्।
अक्षौहिणीनां शतमाततायिनां छिन्ध्यान्मृडो
घोरकुठारधारया ॥२७॥
निहन्तु दस्यून्
प्रलयानलार्चि-र्ज्वलत्त्रिशूलं त्रिपुरान्तकस्य।
शार्दूलसिंहर्क्षवृकादि हिंस्रान्
सन्त्रासयत्वीशधनुः पिनाकः ॥२८॥
दुःस्वप्न दुश्शकुन दुर्गति
दौर्मनस्य-दुर्भिक्ष दुर्व्यसन दुस्सहदुर्यशांसि।
उत्पाततापविषभीतिमसद्ग्रहार्ति-व्याधींश्च
नाशयतु जगतामधीशः ॥२९॥
कोणत्याही टिप्पण्या नाहीत: